|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.75. अध्यायः 075
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन स्वावमानितस्य युधिष्ठिरस्य प्रसादनम्॥ 1 ॥ अर्जुनेन युधिष्ठिराग्रे कर्णवधप्रतिज्ञानम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-75-0x(5018)(58627)
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम्।
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम्॥ 8-75-1(58628)
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम्।
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम्॥ 8-75-2(58629)
असिना तीक्ष्णधारणे हन्या धर्मे व्यस्थितम्।
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः॥ 8-75-3(58630)
हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम्।
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः॥ 8-75-4(58631)
स भवान्धर्मभीरुत्वाद्धवं यायान्महत्तमः।
नरकं घोररूपं च भ्रातुर्ज्येतुस्य वै वथात्॥ 8-75-5(58632)
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्।
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम॥ 8-75-6(58633)
प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे।
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति॥ 8-75-7(58634)
हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः।
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद॥ 8-75-8(58635)
एतदत्र महाबाहो प्राप्तकालं मतं मम।
एवं कृते कृतं चैव तव कार्यं भविष्यति॥ 8-75-9(58636)
सञ्जय उवाच। 8-75-10x(5019)
ततोऽर्जुनो महाराज लज्जपा वै समन्वितः।
धर्तराजस्य चरणौ प्रपद्य शिरसा नतः॥ 8-75-10(58637)
उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः।
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा॥ 8-75-11(58638)
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः।
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम्॥ 8-75-12(58639)
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम्।
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः॥ 8-75-13(58640)
रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती।
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः॥ 8-75-14(58641)
तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः।
प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः।
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम्॥ 8-75-15(58642)
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः।
कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः।
शरैः कृत्ता महेष्वास यतमानस्य संयुगे॥ 8-75-16(58643)
सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन।
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम्॥ 8-75-17(58644)
न चेदद्य हि तं वीरं निहनिष्यसि संयुगे।
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम॥ 8-75-18(58645)
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ॥ 8-75-19(58646)
सत्येन ते शपे राजंस्त्वत्पादेन तथैव च।
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते॥ 8-75-20(58647)
`अहमेनं नरश्रेष्ठ सामात्यं च महीपते'।
यथाद्य समरे कर्णं हनिष्यामि हतोपि वा।
महीतले पतिष्यामि सत्येनायुधमालभे॥ 8-75-21(58648)
एवमाभाष्य राजानमब्रवीन्माधवं वचः।
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः।
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः॥ 8-75-22(58649)
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम।
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम्॥ 8-75-23(58650)
एष चापि हि मे कामो नित्यमेव महारथ।
कथं भवान्रणे कर्णं निहन्यादिति सत्तम॥ 8-75-24(58651)
एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत्।
हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे॥ 8-75-25(58652)
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः।
रथोपकरणैः सर्वैः सत्वरं यातु मे रथः॥ 8-75-26(58653)
एवमुक्तो महाराज फल्गुनेन महात्मना।
उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत्।
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ 8-75-27(58654)
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम।
योजयामास च रथं वैयाघ्नं शत्रुतापनम्।
सज्जं निवेदयामास पाण्डवस्य महात्मनः॥ 8-75-28(58655)
युक्तं तु रथमास्थाय दारुकेण महात्मना।
उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत्।
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम्॥ 8-75-29(58656)
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि।
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः॥ 8-75-30(58657)
श्रुत्वा ह्यावां महासंख्ये त्वां कर्णशरपीडितम्।
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन॥ 8-75-31(58658)
दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः।
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ॥ 8-75-32(58659)
युधिष्ठिर उवाच। 8-75-33x(5020)
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव।
वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया॥ 8-75-33(58660)
अहं त्वामनुजानामि जहि कर्णं धनञ्जय।
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं॥ 8-75-34(58661)
सञ्जय उवाच। 8-75-35x(5021)
ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा।
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष॥ 8-75-35(58662)
तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम्।
मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह॥ 8-75-36(58663)
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया।
माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम्॥ 8-75-37(58664)
अर्जुन उवाच। 8-75-38x(5022)
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः।
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्॥ 8-75-38(58665)
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम्।
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम्॥ 8-75-39(58666)
अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते।
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते॥ 8-75-40(58667)
नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात्।
इति सत्येन ते पादौ स्पृशामि जगतीपते॥ 8-75-41(58668)
सञ्जय उवाच। 8-75-42x(5023)
इति ब्रुवाणं सुमनाः किरीटिनं
युधिष्ठिरः प्राह वचो बृहत्तरम्।
यशोऽक्षयं जीवितमीप्सितं ते
जयं सदा वीर्यमरिक्षयं तदा॥ 8-75-42(58669)
प्रयाहि वृद्धिं च दिशन्तु देवता
यथाहमिच्छामि तवास्तु तत्तथा।
प्रयाहि शीघ्रं जहि कर्णमाहवे
पुरन्दरो वृत्रमिवात्मवृद्वये॥ ॥ 8-75-43(58670)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः॥ 75 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|